|
|
 |
 |
|
|
Durga Saptashati Parayana Vidhi – श्री दुर्गा सप्तशती पारायण विधि
श्रीमहागणपतये नमः । श्रीगुरुभ्यो नमः ।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
आचम्य –
ओं ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा ।
ओं ह्रीं विद्यातत्त्वं शोधयामि नमः स्वाहा ।
ओं क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा ।
ओं ऐं ह्रीं क्लीं सर्वतत्त्वं शोधयामि नमः स्वाहा ।
प्राणायामम् –
मूलमन्त्रेण इडया वायुमापूर्य, कुम्भके चतुर्वारं मूलं पठित्वा, द्विवारं मूलमुच्चरन् पिङ्गलया रेचयेत् ॥
प्रार्थना –
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥
सङ्कल्पम् –
(देशकालौ सङ्कीर्त्य)
अस्माकं सर्वेषां सहकुटुम्बानां क्षेमस्थैर्यायुरारोग्यैश्वराभिवृद्ध्यर्थं, समस्तमङ्गलावाप्त्यर्थं, मम श्रीजगदम्बा प्रसादेन सर्वापन्निवृत्ति द्वारा सर्वाभीष्टफलावाप्त्यर्थं, ममामुकव्याधि नाशपूर्वकं क्षिप्रारोग्यप्राप्त्यर्थं, मम अमुकशत्रुबाधा निवृत्त्यर्थं, ग्रहपीडानिवारणार्थं, पिशाचोपद्रवादि सर्वारिष्टनिवारणार्थं, धर्मार्थकाममोक्ष चतुर्विध पुरुषार्थ फलसिद्धिद्वारा श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी प्रीत्यर्थं कवचार्गल कीलक पठन, न्यासपूर्वक नवार्णमन्त्राष्टोत्तरशत जप, रात्रिसुक्त पठन पूर्वकं, देवीसूक्त पठन, नवार्णमन्त्राष्टोत्तरशत जप, रहस्यत्रय पठनान्तं श्रीचण्डीसप्तशत्याः पारायणं करिष्ये ॥
पुस्तकपूजा –
ओं नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
शापोद्धारमन्त्रः –
ओं ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिके देवि शापानुग्रहं कुरु कुरु स्वाहा ॥
इति सप्तवारं जपेत् ।
उत्कीलन मन्त्रः –
ओं श्रीं क्लीं ह्रीं सप्तशति चण्डिके उत्कीलनं कुरु कुरु स्वाहा ॥
इति एकविंशति वारं जपेत् ।
वेदोक्तं रात्रि सूक्तम् – अस्य रात्रीति सूक्तस्य कुशिक ऋषिः, रात्रिर्देवता, गायत्रीच्छन्दः, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ।
प्रथम चरितम्
मध्यम चरितम्
उत्तर चरितम्
ततः अष्टोत्तरशतवारं (१०८) नवार्णमन्त्रं जपेत् ॥
ऋग्वेदोक्त देवी सूक्तम् – अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, आदिशक्तिर्देवता, त्रिष्टुप् छन्दः, द्वितीया जगती, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठान्ते जपे विनियोगः ॥
रहस्य त्रयम्
अनेन पूर्वोत्तराङ्ग सहित चण्डी सप्तशती पारायणेन भगवती सर्वात्मिका श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यात्मक श्रीचण्डिकापरमेश्वरी सुप्रीता सुप्रसन्ना वरदा भवतु ॥
पुनराचामेत् –
ओं ऐं आत्मतत्त्वं शोधयामि नमः स्वाहा ।
ओं ह्रीं विद्यातत्त्वं शोधयामि नमः स्वाहा ।
ओं क्लीं शिवतत्त्वं शोधयामि नमः स्वाहा ।
ओं ऐं ह्रीं क्लीं सर्वतत्त्वं शोधयामि नमः स्वाहा ।
ओं शान्तिः शान्तिः शान्तिः ॥
॥ इति सप्तशती सम्पूर्णा ॥

|


|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |